(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.1. अध्यायः 001
Mahabharata - Vana Parva - Chapter Topics
द्यूतजितानां पाण्डवानां द्रौपद्यासह वनंप्रति प्रस्थानम् ॥ 1 ॥ तदनु पौरैर्दुर्योधननगर्हणपूर्वकं पाण्डवैः सहारण्यवासेच्छया तदनुगमनम् ॥ 2 ॥ युधिष्ठिरेण प्रार्थनया तेषां पुरंप्रति निवर्तनपूर्वकं सायं गङ्गातीरगवटमेत्य तत्रानुगतब्राह्मणैः सह सुखेन रात्रियापनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

श्रीवेदव्यासाय नमः। 3-1-0x(1748)(15624)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 3-1-1(15625)
जनमेजय उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ 3-1-1x(1749)
श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम्।
किमकुर्वत कौरव्या मम पूर्वपितामहाः ॥ 3-1-2(15626)
कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः।
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥ 3-1-3(15627)
के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।
किमाचाराः किमाहाराः क्वच वासो महात्मनाम् ॥ 3-1-4(15628)
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्।
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम् ॥ 3-1-5(15629)
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।
पतिव्रता महाभागा सततं प्रियवादिनी ॥ 3-1-6(15630)
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ॥ 3-1-7(15631)
श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम्।
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥ 3-1-8(15632)
वैशम्पायन उवाच। 3-1-9x(1750)
एवं द्यूतजिताः पार्थाः कोयिताश्च दुरात्मभिः।
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ 3-1-9(15633)
वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा।
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ 3-1-10(15634)
इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश।
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ 3-1-11(15635)
`ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत।
ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥' 3-1-12(15636)
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः।
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्।
ऊचुर्वै समयं कृत्वा समागम्य परस्परम् ॥ 3-1-13(15637)
पौरा ऊचुः। 3-1-14x(1751)
नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः।
यत्रदुर्योधनः पापः सौबलेयेन पालितः।
कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति ॥ 3-1-14(15638)
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति ॥ 3-1-15(15639)
दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः।
अर्तलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ 3-1-16(15640)
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ 3-1-17(15641)
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
हीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ 3-1-18(15642)
वैशम्पायन उवाच। 3-1-19x(1752)
एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च।
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ 3-1-19(15643)
क्वगमिष्यथ भद्रंवस्त्यक्त्वाऽस्मान्दुःखभागिनः।
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ 3-1-20(15644)
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः।
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ 3-1-21(15645)
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्।
कुराजाघिष्ठिते राज्ये न विनश्येम सर्वशः ॥ 3-1-22(15646)
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः।
शुभाशुभाधिवासेन संसर्गः कुरुते यथा ॥ 3-1-23(15647)
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ 3-1-24(15648)
मोहजालस्य योनिर्हि मूढैरेव समागमः।
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ 3-1-25(15649)
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ 3-1-26(15650)
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।
ते सेव्यास्तैः समास्याहि शास्त्रेभ्योपि गरीयसी ॥ 3-1-27(15651)
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥ 3-1-28(15652)
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासवात्।
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः ॥ 3-1-29(15653)
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः ॥ 3-1-30(15654)
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।
ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः।
लोकाचारेषु संभूता वेदोक्ताः शिष्टसंमताः ॥ 3-1-31(15655)
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः ॥ 3-1-32(15656)
युधिष्ठिर उवाच। 3-1-33x(1753)
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ 3-1-33(15657)
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥ 3-1-34(15658)
भीष्मः पितामहो राजा विदुरो जननी च मे।
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥ 3-1-35(15659)
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।
युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः ॥ 3-1-36(15660)
निवर्ततागता दूरं ममागमनकाङ्क्षिणः।
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ 3-1-37(15661)
एतद्धि मम कार्याणां परमं हृदि संस्थितम्।
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति ॥ 3-1-38(15662)
वैशम्पायन उवाच। 3-1-39x(1754)
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥ 3-1-39(15663)
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥ 3-1-40(15664)
निवृत्तेषु तुं पौरेषु रथानास्थाय पाण्डवाः।
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ 3-1-41(15665)
ते तं दिषसशेषेण वटं गत्वा तु पाण्डवाः।
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥ 3-1-42(15666)
उदकेनैव तां रात्रिमृषुस्ते दुःखकर्शिताः।
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ॥ 3-1-43(15667)
साग्रयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ 3-1-44(15668)
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।
ब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥ 3-1-45(15669)
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।
आश्वासयन्तो विप्राग्र्याः क्षयां सर्वां व्यनोदयत् ॥ 3-1-46(15670)
`राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः।
अशेत तां निशांराजन्दुःखशोकसमाहितः ॥' 3-1-47(15671)

इति श्रीमन्महाभाते अरण्यपर्वणि किर्मीरवधपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-1-1 पार्था इति च्छत्रिन्यायेन माद्रीसुतयोरप्युपलक्षणम्। दुरात्मभिर्दुष्टचित्तैः। सहामात्यैः कर्णादिभिः। निकृत्या छलेन ॥ 3-1-2 सृजद्भिर्वैरमुत्तममिति ख. ङ. झ. पाठः ॥ 3-1-3 एयुषः प्राप्तवन्तः। कथं चैश्वर्यविभ्रष्टा इति ख. झ. पाठः ॥ 3-1-4 उत्तमं तीव्रम् ॥ 3-1-8 द्रविणं पराक्रमस्तेजो देहकान्तिश्च ते उभे पुष्कले येषां ते भूरिद्रविणतेजसः ॥ 3-1-9 गजसाह्वयात् हास्तिनपुरात् ॥ 3-1-10 वर्धमानपुरंनाम ग्रामविशेषस्तदभिमुखं द्वारं तस्मात् ॥ 3-1-11 परिचतुर्दश अधिकचतुर्दशाः। पञ्चदशेत्यर्थः। संख्यायाव्ययासन्नेति समासः। समासान्तविधेरनित्यत्वात् डचूप्रत्ययस्याभावः ॥ 3-1-13 ऊचुर्विगतसंत्रासा इति ख. झ. पाठः ॥ 3-1-16 प्रकृतिनिर्घृणः स्वभावनिर्दयः। त्यक्ताचारसुहृज्जन इति झ. पाठः ॥ 3-1-18 सानुक्रोशाः सदयाः ॥ 3-1-22 भक्तान् आराधनापरान्। अनुरक्तान् प्रीतिमतः। सुहृदः वेतनाद्युपकारमनपेक्ष्य उपकारकान्। न विनश्येम विनाशं न प्रार्थयासहे। प्रार्थनायां लिङ् ॥ 3-1-24 आपः अपः ॥ 3-1-27 अवदातानि शुद्धानि। समास्या संगतिः ॥ 3-1-28 निरारम्भाः अग्निहोत्राद्यकुर्वाणा अपि ॥ 3-1-29 न सिद्ध्यन्ति सिद्धिश्चित्तशुद्धिस्तां न प्राप्नुवन्ति धर्माचारहीनत्वात् ॥ 3-1-31 अविषयैः अगोचरैरपरिचितैरित्यर्थः। धर्मकामार्थसंभवाः धर्मादीनां संभव उत्पत्तिर्येभ्यस्ते ॥ 3-1-32 समस्ताः एकीभूताः। व्यस्ताः पृथक्पृथग्भूताः ॥ 3-1-34 स्नेहो वात्सल्यं तत्सहिता अनुकम्पा दया ॥ 3-1-40 समागम्य संपृच्छ्य 3-1-43 ऊषुः वासं चक्रुः ॥ 3-1-44 ऊषुर्निन्युः ॥ 3-1-45 साग्नयः दारैः सहिताः अग्नयो यैस्ते। रम्यत्वं तापविरहात्संध्यारागादिशोभातश्च। दारुणो रक्षःपिशाचादिसंचारकालत्वात् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.